8, నవంబర్ 2012, గురువారం

गन्धनिरूपणम्------

गन्धनिरूपणम्।
घ्राणग्राह्यो गुणो गन्धः इति गन्धस्य लक्षणम्।
अत्र शाब्दबोधो यथा------घ्राणेन ग्राह्यः घ्राणग्राह्यः। अत्र घ्राणशब्दस्य घ्राणेन्द्रियमर्थः।तदुत्तरवर्ति तृतीयायाः
जन्यत्वमर्थः।ग्रहधातोः प्रत्यक्षमर्थः।तदुत्तरवर्ति ण्यत्प्रत्ययस्य विषयत्वमर्थः।
एवञ्च, घ्राणेन्द्रिय जन्य प्रत्यक्षविषयत्वे सति गुणत्वं गन्धस्य लक्षणम्।
समन्वयो यथा----घ्राणेन्द्रिय जन्यं यत्प्रत्यक्षं "इदं सुरभि, इदम् असुरभि," इत्याकारकं प्रत्यक्षम्। तादृश
प्रत्यक्ष विषयत्वस्य गुणत्वस्य च द्वयोः गन्धे सत्वात् समन्वयः।
दळसार्धक्यानि यथा-----
अत्र लक्षणे सत्यन्तानुपादाने केवलं गुणत्वमेव गन्धस्य लक्षणमित्युक्तौ रूपादावतिव्याप्तिः,तत्रापि गुणत्वस्य
सत्वात्।केवलं घ्राणेन्द्रियजन्य प्रत्यक्षविषयत्वमेव गन्धस्य लक्षणमित्युक्तौ ,"येनेन्द्रियेण या शक्तिः गृह्यते
तन्निष्ठा जातिः तदभावश्च तेनेन्द्रियेणैव गृह्यते" इति न्यायेन, गन्धत्वे,गन्धाभावे
 च अतिव्याप्तिर्भवति।अतः सत्यन्तोपादानमिति ज्ञेयम्।
गन्धः द्विविधः,सुरभिः असुरभिश्चेति।अयं गन्धः केवलं पृथिव्यामेव अस्ति।यत्र यत्र गन्धोऽस्ति सः पृथिवीसम्बन्ध्येव।

కామెంట్‌లు లేవు:

కామెంట్‌ను పోస్ట్ చేయండి