8, నవంబర్ 2012, గురువారం

स्पर्शनिरूपणम्------

स्पर्शस्य लक्षणम्-------त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः।
शाब्दबोधो यथा-----त्वगिन्द्रियमेव त्वगिन्द्रियमात्रम्। त्वगिन्द्रियमात्रेण ग्राह्यः त्वगिन्द्रियमात्रग्राह्यः। अत्र
                              त्वगिन्द्रियशब्दस्य त्वगिन्द्रियमर्थः।मात्रपदस्य इतरयोगव्यवच्छेदोऽर्थः।तदुत्तरवर्ति
                               तृतीयायाः जन्यत्वमर्थः।ग्रहधातोः प्रत्यक्षमर्थः।ण्यत्प्रत्ययस्य विषयत्वमर्थः।
एवञ्च,त्वगिन्दियजन्य प्रत्यक्षविषयः,त्वग्भिन्नेन्द्रियजन्य प्रत्यक्ष अविषयः गुणः स्पर्श इति बोधः।
एवञ्च,स्पर्शस्य किं वा लक्षणमित्युक्तौ,त्वगिन्द्रियजन्य प्रत्यक्षविषयत्वे सति,त्वग्भिन्नेन्द्रियजन्य प्रत्यक्ष
अविषयत्वे सति,गुणत्वं स्पर्शस्य लक्षणमिति फलितम्।
समन्वयो यथा-------त्वगिन्द्रियजन्यं यत्प्रत्यक्षम्,इत्युक्ते,"इदमुष्णम्,इदं शीतम्" इत्याकारकं प्रत्यक्षम्।
                                  तादृशप्रत्यक्षविषयत्वस्य,"त्वग्भिन्नं यदिन्द्रियमित्युक्ते घ्राणेन्द्रियादिकम्,तज्जन्यं
                                  यत्प्रत्यक्षं नाम,"इदं सुरभि,इदमसुरभि"इत्याकारकम्,तादृश प्रत्यक्ष अविषयत्वस्य,
                                  गुणत्वस्य च त्रयाणामपि स्पर्शे सत्वात् समन्वयः।
दळसार्धक्यानि यथा----अत्र प्रथमसत्यन्तस्य अनुपादाने अतीन्द्रिये गुरुत्वादौ अतिव्याप्तिः।अतः तदुपात्तम्।
                                    द्वितीय सत्यन्तानुपादाने, सङ्ख्याया अपि त्वगिन्द्रियजन्य प्रत्यक्षविषयत्वात्,
                                    गुणत्वाच्च, तत्रातिव्याप्तिः।अतः तदुपात्तम्।एवञ्च,सङ्ख्यायाः त्वग्भिन्न चक्षुरि-
                                    न्द्रियग्रह्यत्वेन तत्र त्वग्भिन्न चक्षुरिन्द्रियजन्य विषयत्वस्यैव सत्वेन,अविषयत्वस्य
                                    अभावात् नातिव्याप्तिः।
                                    विशेष्यदळानुपादाने(गुणत्वस्य अनुपादाने) येनेन्द्रियेणेति न्यायेन स्पर्शाभावे,
                                    स्पर्शत्वे च अतिव्याप्तिः।अतस्तदुपात्तम्।
                                    तावन्मात्रोक्तौ(गुणत्वमात्रोक्तौ) रूपादावतिव्याप्तिः।अतः सत्यन्तद्वयमुपात्तम्।
                                    स स्पर्शः त्रिविधः---शीत,उष्ण,अनुष्णाशीतभेदात्।तत्र शीतं जले।उष्णं तेजसि।
                                    अनुष्णा,शीते पृथिवी,वाय्वोः।

गन्धनिरूपणम्------

गन्धनिरूपणम्।
घ्राणग्राह्यो गुणो गन्धः इति गन्धस्य लक्षणम्।
अत्र शाब्दबोधो यथा------घ्राणेन ग्राह्यः घ्राणग्राह्यः। अत्र घ्राणशब्दस्य घ्राणेन्द्रियमर्थः।तदुत्तरवर्ति तृतीयायाः
जन्यत्वमर्थः।ग्रहधातोः प्रत्यक्षमर्थः।तदुत्तरवर्ति ण्यत्प्रत्ययस्य विषयत्वमर्थः।
एवञ्च, घ्राणेन्द्रिय जन्य प्रत्यक्षविषयत्वे सति गुणत्वं गन्धस्य लक्षणम्।
समन्वयो यथा----घ्राणेन्द्रिय जन्यं यत्प्रत्यक्षं "इदं सुरभि, इदम् असुरभि," इत्याकारकं प्रत्यक्षम्। तादृश
प्रत्यक्ष विषयत्वस्य गुणत्वस्य च द्वयोः गन्धे सत्वात् समन्वयः।
दळसार्धक्यानि यथा-----
अत्र लक्षणे सत्यन्तानुपादाने केवलं गुणत्वमेव गन्धस्य लक्षणमित्युक्तौ रूपादावतिव्याप्तिः,तत्रापि गुणत्वस्य
सत्वात्।केवलं घ्राणेन्द्रियजन्य प्रत्यक्षविषयत्वमेव गन्धस्य लक्षणमित्युक्तौ ,"येनेन्द्रियेण या शक्तिः गृह्यते
तन्निष्ठा जातिः तदभावश्च तेनेन्द्रियेणैव गृह्यते" इति न्यायेन, गन्धत्वे,गन्धाभावे
 च अतिव्याप्तिर्भवति।अतः सत्यन्तोपादानमिति ज्ञेयम्।
गन्धः द्विविधः,सुरभिः असुरभिश्चेति।अयं गन्धः केवलं पृथिव्यामेव अस्ति।यत्र यत्र गन्धोऽस्ति सः पृथिवीसम्बन्ध्येव।

6, ఏప్రిల్ 2012, శుక్రవారం

iviyan

काळिदासस्य विनयशीलता----श्लो।"मन्दः कवियशःप्रार्थी,गमिष्याम्यपहास्यताम्। प्रांशुलभ्ये फले लोभात् उद्बाहुरिव वामनः।"
काळिदासो नाम कविः प्रथमं निरक्षरकुक्षिस्सन् काळिकादेवीवरप्रसादेन अनर्गळकविताधारया लब्धप्रतिष्ठोऽभवत्।सः सूर्यादागत रघुवंशीयराजन्यानां चरित्रं लेखितुमुद्युक्तः तत्कार्यं तस्य साध्यं वेति भावयन्नेवं चिन्तयति।"अहमतीव मन्दबुद्धिमान्।कवेरपेक्ष्यं यशः
स्वस्मै इच्छामि।प्रांशुलभ्ये फले बाहुं प्रसारयन् तत्फलं प्राप्तुं प्रयतमानो वामन इव परिहासास्पदो भवेयम्।"इति।काळिदासस्य वचनान्येतानि तस्य गर्वराहित्यं विनयसौशील्यं च सूचयन्ति।